Class 9 संस्कृत Chapter 4

Chapter 4 – न खलु वयस्तेजसो हेतुः

अध्याय-परिचय

“न खलु वयस्तेजसो हेतुः” कक्षा 9 संस्कृत का चतुर्थ पाठ है। यह पाठ महान क्रान्तिवीर खुदीराम बोस के साहस, देशभक्ति, त्याग और राष्ट्र के प्रति समर्पण की प्रेरणादायक जीवन-कथा प्रस्तुत करता है।

Last updated: 01/09/2026 Complete Chapter Study Material

Quick Chapter Information

Class 9
Subject संस्कृत
Chapter 4
Difficulty Moderate

चतुर्थः पाठः — न खलु वयस्तेजसो हेतुः

अभ्यासाद् जायते सिद्धिः

1. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत

प्रश्नःउत्तरम्
(क) खुदीरामस्य जन्म कुत्र अभवत्? खुदीरामस्य जन्म बङ्गप्रान्तस्य मेदिनीपुरजनपदे मोहोबनी-ग्रामे अभवत्।
(ख) खुदीरामः किमर्थं व्यथितः भवति स्म? खुदीरामः देशवासिषु जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म।
(ग) सत्येन्द्रनाथः किम् उपदिष्टवान्? सत्येन्द्रनाथः उपदिष्टवान् यत् क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारेव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत्।
(घ) खुदीरामः कदा पर्यन्तं पादत्राणं न धरिष्यामि इति प्रतिज्ञातवान्? खुदीरामः यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि इति प्रतिज्ञातवान्।
(ङ) किमर्थं न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिताः? मृत्युदण्डस्य घोषणां श्रुत्वापि खुदीरामस्य मुखे दुःखं वा न आसीत्, प्रत्युत् प्रसन्नता, शान्तिः, तृप्तिः, तेजः च आसीत्; तत् दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिताः।

2. अधः प्रदत्तेषु वाक्येषु किं वाक्यं सत्यम्, किं च असत्यम् इति सूचयत

वाक्यम्उत्तरम्
(क) देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति।सत्यम्
(ख) निर्दयः किङ्ग्ज़फोर्ड् बालान् अपि दण्डयति स्म।सत्यम्
(ग) खुदीरामस्य आक्रमणेन किङ्ग्ज़फोर्ड् मृतः।असत्यम्
(घ) खुदीरामः किङ्ग्ज़फोर्ड् महोदयस्य रथस्य उपरि विस्फोटकं क्षिप्तवान्।सत्यम्
(ङ) खुदीरामः बालानां सङ्घटनं कृत्वा पदयात्राम् आयोजयति स्म।सत्यम्

3. अधः प्रदत्तानां संवत्सराणां शब्दानाम् अङ्कैः सह मेलनं कुरुत

संवत्सरः — शब्दरूपेणअङ्कः
(क) सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम्१९४७
(ख) अष्टाधिक-नवदशशततमं वर्षम्१९०८
(ग) पञ्चाशदुत्तर-नवदशशततमं वर्षम्१९५०
(घ) पञ्चाधिक-नवदशशततमं वर्षम्१९०५
(ङ) नवाशीत्यधिक-अष्टादशशततमं वर्षम्१८८९

4. अधः प्रदत्तानि पदानि आधृत्य चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत

क्रमःवाक्यम्
(क)उद्याने बालकाः क्रीडन्ति।
(ख)उद्याने बालकाः द्विचक्रिकाभिः भ्रमन्ति।
(ग)पक्षिणः आकाशे विहरन्ति।
(घ)उद्याने विविधरङ्गाणि पुष्पाणि सन्ति।
(ङ)दूरं पर्वताः, वृक्षाः, मेघाः च दृश्यन्ते।

5. सन्धिच्छेदं कुरुत

पदम्सन्धिच्छेदः
(क) इत्यादयःइति + आदयः
(ख) सर्वेऽपिसर्वे + अपि
(ग) कश्चित्कः + चित्
(घ) प्रत्येकम्प्रति + एकम्
(ङ) वयस्तेजसःवयः + तेजसः
(च) अचिरादेवअचिरात् + एव

6. विग्रहवाक्यं दृष्ट्वा पाठ्यपुस्तकात् समस्तपदानि चित्वा पूरयत

विग्रहवाक्यम्समस्तपदम्
(क) देशस्य भक्ताःदेशभक्ताः
(ख) बालः च क्रान्तिवीरः चबालक्रान्तिवीरः
(ग) वज्रेण सदृशम्वज्रसदृशम्
(घ) असेः धाराअसिधारा
(ङ) मृत्युः एव दण्डःमृत्युदण्डः
(च) न साधारणःअसाधारणः
(छ) निर्गता दया यस्मात् सःनिर्दयः

7. लङ्लकारः, क्तवतु-प्रत्ययः, स्म, क्तप्रत्ययः — वाक्यानि परिवर्तयत

मूलवाक्यम्निर्देशानुसार परिवर्तित वाक्यम्
(क) वन्दे मातरम् इत्यादयः घोषणाः भवन्ति स्म।
(लङ्-लकारः)
वन्दे मातरम् इत्यादयः घोषणाः अभवन्।
(ख) सत्येन्द्रनाथः खुदीरामम् उपादिशत्।
(क्तवतु-प्रत्ययः)
सत्येन्द्रनाथः खुदीरामम् उपदिष्टवान्।
(ग) सः नवमीं कक्षां पूर्णां कर्तुं न शक्तवान्।
(लङ्-लकारः)
सः नवमीं कक्षां पूर्णां कर्तुं न अशकत्।
(घ) क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् अजनयन्।
(स्म)
क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कं जनयन्ति स्म।
(ङ) प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं कृतवान्।
(लङ्-लकारः)
प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारम् अकरोत्।

8. ‘चित्’ प्रत्ययान्तपदानि प्रयुज्य रिक्तस्थानानि पूरयत

प्रश्नःपूर्णवाक्यम्
(क) बालकः गच्छति। कश्चित् बालकः गच्छति।
(ख) बालिका गच्छति। काचित् बालिका गच्छति।
(ग) फलं खादतु। किञ्चित् फलं खादतु।
(घ) लेखनी लप्ता। कुत्रचित् लेखनी लप्ता।
(ङ) सः आगच्छेत्। कदाचित् सः आगच्छेत्।

अभ्यासस्य मुख्य बिन्दवः

विषयःमुख्य उदाहरणम्
सन्धिःइति + आदयः = इत्यादयः
समासःदेशस्य भक्ताः = देशभक्ताः
लङ्लकारःभवति स्म = अभवत् / अभवन्
क्तवतु-प्रत्ययःउपादिशत् = उपदिष्टवान्
‘चित्’ प्रत्ययःकः + चित् = कश्चित्
अव्यय-युगलपदानियदा–तदा, यावत्–तावत्, यद्यपि–तथापि

Related Resources