Class 9 संस्कृत Chapter 10

दशमः पाठः — णमो अरिहन्ताणम्

‘णमो अरिहन्ताणम्’ पाठ में जैनधर्म के प्रथम तीर्थङ्कर ऋषभदेव (आदिनाथ) के जीवन, कार्यों तथा उनके योगदान का वर्णन किया गया है। पाठ में बताया गया है कि ऋषभदेव ने प्रजा की समस्याओं को समझकर कृषि, वस्त्र-निर्माण, भोजन-निर्माण, पशुपालन, गृह-निर्माण आदि जीवनोपयोगी कार्यों में लोगों को प्रशिक्षित किया और समाज को व्यवस्थित बनाया।

आगे पाठ में उनके वैराग्य, कठोर तप, दीर्घकालिक उपवास, केवलज्ञान की प्राप्ति तथा जैनसङ्घ की स्थापना का वर्णन मिलता है। साथ ही णमोकारमन्त्र, जैनधर्म के प्रमुख सिद्धान्त, अहिंसा, अनेकान्तवाद, स्याद्वाद, अपरिग्रह तथा पञ्चमहाव्रत का परिचय दिया गया है।

Last updated: 01/09/2026 Complete Chapter Study Material

Quick Chapter Information

Class 9
Subject संस्कृत
Chapter 10
Difficulty Moderate

दशमः पाठः - णमो अरिहन्ताणम्

अभ्यासाद् जायते सिद्धिः

१. एकपदेन उत्तरं लिखत —

प्रश्नः उत्तरम्
(क) ऋषभेण निर्मितस्य नगरस्य नाम किम्? विनिता
(ख) ऋषभस्य प्रसिद्धे कन्ये के? ब्राह्मी सुन्दरी
(ग) कस्यां लिप्यां नैकानि शास्त्राणि लिपिबद्धानि? ब्राह्मीलिप्याम्
(घ) विनिता नामकं राज्यं ऋषभः कस्मै समर्पितवान्? भरताय
(ङ) ऋषभः बाहुबलेः किं राज्यं प्रदत्तवान्? तक्षशिलाम्
(च) प्रजाः भिक्षायां कानि वस्तूनि यच्छन्ति स्म? आभरणानि अनर्घवस्तूनि च

२. पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत —

(क) देशे काः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता?

उत्तरम् — ऋषभदेवस्य कल्पना प्राप्ता यत् जनानाम् आलस्यम्, कृषिकार्ये अनभिरुचिः, प्रजासु उत्पादनक्षमतायाः अभावः चेत्येतादृश्यः मूलसमस्याः सन्ति।

(ख) महाराजः केषु कार्येषु प्रजाः प्रशिक्षितवान्?

उत्तरम् — महाराजः कृषिकार्ये, विविधपदार्थैः भोजननिर्माणे, तन्तुभिः वस्त्रनिर्माणे, गवाम् अश्वादीनां पशूनां पालने, काष्ठैः धातुभिः शिलाभिः च वस्तूनां निर्माणे, पात्रनिर्माणे, गृह-निर्माणे तथा नगरनिर्माणे प्रजाः प्रशिक्षितवान्।

(ग) ऋषभदेवस्य जीवनपरिवर्तिनी घटना का आसीत्?

उत्तरम् — एकदा ऋषभदेवः राजप्रासादे नृत्यकलाप्रदर्शनम् आयोजयत्। तत्र एका नर्तकी नृत्यं प्रदर्शयन्ती सहसा भूमौ पतित्वा मृता। अनया घटनया ऋषभदेवस्य मनः विक्षुब्धम् अभवत्। ततः तस्य मनसि जीवनस्य शाश्वतत्वसम्बन्धिनः अनेकाः प्रश्नाः उत्पन्नाः। सः सर्वं परित्यज्य जीवनस्य परमसत्यम् अन्वेष्टुं प्रस्थितवान्।

(घ) ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः कथम् अभवत्?

उत्तरम् — ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः तस्य प्रपौत्रेण श्रेयांसने इक्षुरसं पानार्थं दत्ते सति अभवत्। एषा घटना वैशाखमासस्य अक्षयतृतीया-दिने अभवत्।

(ङ) ऋषभदेवः कदा कुत्र च केवलज्ञानं प्राप्तवान्?

उत्तरम् — ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्।

(च) जनानां मार्गदर्शनार्थं कं क्रमं रचितवान्?

उत्तरम् — जनानां मार्गदर्शनार्थं ऋषभदेवः भिक्षु-भिक्षुणी-श्रावक-श्राविका इति क्रमं रचितवान्। स एव क्रमः जैनसङ्घः इति प्रसिद्धः।

३. समस्तपदानि लिखत —

विग्रहवाक्यम् समस्तपदम्
(क) महान् च असौ राजा च महाराजः
(ख) प्रजानां सुखम् प्रजासुखम्
(ग) मूलाः समस्याः मूलसमस्याः
(घ) भोजनस्य निर्माणम् भोजननिर्माणम्
(ङ) आर्थिकी स्थितिः आर्थिकस्थितिः
(च) प्राप्तः आनन्दः येन सः प्राप्तानन्दः
(छ) विधिना लिखितम् विधिलिखितम्
(ज) गृहं गृहं प्रति प्रतिगृहम्
(झ) ब्राह्मीनाम्नी लिपिः ब्राह्मीलिपिः

४. वाक्यानि उदाहरणानुसारं परिवर्तयत —

यथा — जनैः स्वयमेव निर्माणकार्यम् आरब्धम्।
उत्तरम् — जनाः स्वयमेव निर्माणकार्यम् आरब्धवन्तः।

प्रश्नः उत्तरम्
(क) महाराजेन राज्यं समर्पितम्। महाराजः राज्यं समर्पितवान्।
(ख) केनापि तत् न चिन्तितम्। केनापि तत् न चिन्तितवान्।
(ग) ऋषभदेवेन दीर्घकालिकः उपवासः कृतः। ऋषभदेवः दीर्घकालिकम् उपवासं कृतवान्।
(घ) जनैः जीवनपद्धतिः परिवर्तिता। जनाः जीवनपद्धतिं परिवर्तितवन्तः।
(ङ) ऋषभेण योजना कृता। ऋषभः योजनां कृतवान्।

५. सन्धिं कुरुत —

शब्दौ सन्धिपदम्
(क) इति + अतः इत्यतः
(ख) च + इति चेति
(ग) देवस्य + अपि देवस्यापि
(घ) तथा + एव तथैव
(ङ) इति + एतादृशाः इत्येतादृशाः
(च) ब्राह्मीद्वारा + एव ब्राह्मीद्वारैव
(छ) प्रस्थितः + अयम् प्रस्थितोऽयम्

Related Resources