Class 9 संस्कृत Chapter 9

नवमः पाठः — कृतं प्रतिकृतं भूयादेष धर्मः सनातनः

अध्याय-परिचय

इस पाठ में ‘एकचक्रम्’ रूपक के माध्यम से महाभारत की बकासुर-वध की कथा प्रस्तुत की गई है। इसमें कुन्ती, भीम और युधिष्ठिर के संवादों द्वारा उपकार का प्रत्युपकार, धर्म, कर्तव्य और वीरता जैसे जीवन-मूल्यों को स्पष्ट किया गया है।

Last updated: 01/09/2026 Complete Chapter Study Material

Quick Chapter Information

Class 9
Subject संस्कृत
Chapter 9
Difficulty Moderate

नवमः पाठःकृतं प्रतिकृतं भूयादेष धर्मः सनातनः

अभ्यासाद् जायते सिद्धिः

१. अधः प्रदत्तप्रश्नानाम् उत्तराणि एकपदेन लिखत —

  1. भीमस्य जननी का?
    उत्तरम् — कुन्ती।
  2. कुन्त्या निश्चितं कः न समर्थयति?
    उत्तरम् — युधिष्ठिरः।
  3. पाण्डवानाम् उपकर्ता कः?
    उत्तरम् — ब्राह्मणः।
  4. कं चिन्तयन् दुर्योधनः निद्रां न लभते?
    उत्तरम् — भीमम्।
  5. पाण्डवाः कुत्र निवसन्ति स्म?
    उत्तरम् — एकचक्रनगरे।
  6. भरतवंशप्रदीपः कः?
    उत्तरम् — भीमः।
  7. कः भृशं परिदेवयते?
    उत्तरम् — ब्राह्मणः।

२. पूर्णवाक्येन उत्तरं लिखत —

  1. “भैक्षप्रदानेन........” इति श्लोकानुसारं सनातनः धर्मः कः?
    उत्तरम् —

    चिरं वयं परैः भैक्षप्रदानेन उपकृताः। कृतं प्रतिकृतं भूयात्, एषः सनातनः धर्मः।

  2. बकनामा दैत्यः कुत्र वसति?
    उत्तरम् —

    बकनामा दैत्यः एकचक्रस्य पुरस्यादूरवर्तिनि पर्वते वसति।

  3. कुन्ती किं प्रतिश्रुतवती?
    उत्तरम् —

    कुन्ती स्वपुत्रेषु एकं बकासुरस्य समीपं प्रेषयामि इति प्रतिश्रुतवती।

  4. भीमस्य अग्रजः कः?
    उत्तरम् —

    भीमस्य अग्रजः युधिष्ठिरः अस्ति।

  5. का प्रत्यादेशं न अर्हति?
    उत्तरम् —

    मातुः आज्ञा प्रत्यादेशं न अर्हति।

  6. पौराः बकासुराय कथं बलिम् आहरन्ति?
    उत्तरम् —

    पौराः बकासुराय पर्यायक्रमेण बलिम् आहरन्ति।

  7. क्षत्रियाणां धर्मः कः?
    उत्तरम् —

    नररक्षणं नाम भूमिपालानां क्षत्रियाणां धर्मः।


३. अधस्तात् दत्तानि वाक्यानि केन कं प्रति उक्तानि इति निर्दिशत —

क्र.सं. वाक्यम् केन / कया कं / कां प्रति
यथा तस्माद् बालकस्य पिता तपस्वी शोचति। कुन्त्या भीमम्
१ न हि मातुराज्ञा प्रत्यादेशमर्हति। भीमेन युधिष्ठिरम्
२ न हि खरदंष्ट्रो मृगाधिपः सहायमपेक्षते। भीमेन अर्जुनम्
३ क्षत्रियाण्या यदुचितं तदनुष्ठितम्। भीमेन युधिष्ठिरम्
४ अपि हस्तद्वयेन भोक्ष्यसे? सहदेवेन भीमम्
५ तस्य भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम्? युधिष्ठिरेण कुन्तीम्
६ नरभक्षणं नाम मांसाशिनां राक्षसानां धर्मः। बकेन भीमम्

४. रेखाङ्कितपदेषु सन्धिं विभज्य सन्धिनाम लिखत —

क्र.सं. सन्धिपदम् सन्धिविच्छेदः सन्धिनाम
यथा चैतावत् च + एतावत् वृद्धि-सन्धिः
क सम्यगनुष्ठितम् सम्यक् + अनुष्ठितम् जश्त्व-सन्धिः
ख पुरस्यादूरवर्तिनि पुरस्य + अदूरवर्तिनि दीर्घ-सन्धिः
ग दुरात्मनो वृत्तम् दुरात्मनः + वृत्तम् विसर्ग-सन्धिः
घ मानुषोऽपि मानुषः + अपि विसर्ग-सन्धिः
ङ नास्त्यत्र नास्ति + अत्र यण्-सन्धिः
च यदुचितम् यत् + उचितम् जश्त्व-सन्धिः
छ पुत्रस्तपस्वी पुत्रः + तपस्वी विसर्ग-सन्धिः
ज सङ्कल्पितम् सम् + कल्पितम् अनुस्वार-सन्धिः
झ धर्मसङ्ग्रहोऽत्र धर्मसङ्ग्रहः + अत्र विसर्ग-सन्धिः
ञ स राक्षसः सः + राक्षसः विसर्ग-सन्धिः

५. पर्यायवाचि-पदानां मेलनं कुरुत —

पदम् पर्यायवाची पदम्
आयोधनम् युद्धम्
विप्रः ब्राह्मणः
असुरः दैत्यः
अम्ब जननी
हुताशनः अग्निः

उत्तरक्रमः — (क)–५, (ख)–१, (ग)–४, (घ)–२, (ङ)–३


६. अधोलिखितानां पदानां विपरीतार्थक-शब्दान् लिखत —

पदम् विपरीतार्थक-पदम्
यथा — पीवरः कृशः
उपकृतः अपकृतः
अग्रजस्य अनुजस्य
उचितम् अनुचितम्
हर्षः शोकः

७. मञ्जूषातः समुचितं विशेषणपदं चित्वा लिखत —

मञ्जूषा — क्षत्रियाणी, शकटपूरम्, प्रतिवेशी, खरदंष्ट्रः, जठरस्थः, कौन्तेयः, पीवरौ

विशेष्यपदम् उचितं विशेषणपदम्
यथा — बाहू पीवरौ
मृष्टान्नम् शकटपूरम्
ब्राह्मणः प्रतिवेशी
मृगाधिपः खरदंष्ट्रः
भीमः कौन्तेयः
कुन्ती क्षत्रियाणी
हुताशनः जठरस्थः

८. समस्तपदानि लिखत —

क्र.सं. विग्रह-वाक्यम् समस्तपदम्
यथा मृष्टम् अन्नम् मृष्टान्नम्
क वीरस्य भुजयोः बलम् भुजबलम्
ख धर्माणां सङ्ग्रहः धर्मसङ्ग्रहः
ग मातुः आज्ञा मातुराज्ञा
घ धनुः धरति इति धनुर्धरः
ङ मृगाणाम् अधिपः मृगाधिपः
च न दूरे वर्तते अदूरवर्ती

९. अधोलिखितवाक्यानाम् उचितभावैः सह सम्मेलनं कुरुत —

क्र.सं. वाक्यम् उचितभावः
यथा प्रभूतमुपस्थितं मे भोजनम्। हर्षः
क धनुर्धरोऽहमनुगमिष्यामि। ओजः
ख भीमस्य प्रेषणं कथं नु त्वया सङ्कल्पितम्? निराशा
ग अपि हस्तद्वयेन भोक्ष्यसे? हासः
घ हनिष्यामि तं दुरात्मानम्। धैर्यम्
ङ स खल्वेकपुत्रस्तपस्वी भृशं परिदेवयते। ग्लानिः
च मानुषापसद, परिवेषय मे भोजनम्। अधिकारः

उत्तरक्रमः — (क)–५, (ख)–२, (ग)–१, (घ)–६, (ङ)–३, (च)–४


१०. वाच्यपरिवर्तनं कुरुत —

कर्तृवाच्यम् कर्मवाच्यम् / परिवर्तित रूपम्
यथा — भवत्या प्रतिश्रुतम्। भवती प्रतिश्रुतवती।
क) क्षत्रियाण्या अनुष्ठितम्। क्षत्रियाणी अनुष्ठितवती।
ख) भवत्या सज्जीक्रियताम्। भवती सज्जीकरोतु।
ग) भवत्या उपक्षिप्तम्। भवती उपक्षिप्तवती।
घ) त्वया सङ्कल्पितम्। त्वं सङ्कल्पितवान्।
ङ) भवता धर्मसङ्ग्रहः द्रष्टव्यः। भवान् धर्मसङ्ग्रहं पश्यतु।
च) पौरजनैः मानुषः प्रेषयितव्यः। पौरजनाः मानुषं प्रेषयन्तु।

अभ्यासस्य संक्षिप्त पुनरावृत्तिः

व्याकरण-विषयः मुख्य उदाहरणम्
जश्त्व-सन्धिः सम्यक् + अनुष्ठितम् → सम्यगनुष्ठितम्
दीर्घ-सन्धिः पुरस्य + अदूरवर्तिनि → पुरस्यादूरवर्तिनि
विसर्ग-सन्धिः दुरात्मनः + वृत्तम् → दुरात्मनो वृत्तम्
यण्-सन्धिः नास्ति + अत्र → नास्त्यत्र
अनुस्वार-सन्धिः सम् + कल्पितम् → सङ्कल्पितम्
समासः धर्माणां सङ्ग्रहः → धर्मसङ्ग्रहः
वाच्यपरिवर्तनम् भवत्या प्रतिश्रुतम् → भवती प्रतिश्रुतवती

Related Resources